श्रवणम्

1.25.11
अतो॒ विश्वा॒न्यद्भु᳚ता चिकि॒त्वा{4} अ॒भि प᳚श्यति ।
कृ॒तानि॒ या च॒ कर्त्वा᳚ ॥
▶ पदपाठः (Word-by-word)
अतः᳚ । विश्वा᳚नि । अद्भु᳚ता । चि॒कि॒त्वान् । अ॒भि । प॒श्य॒ति॒ ।
कृ॒तानि᳚ । या । च॒ । कर्त्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतोऽस्माद्वरुणाद्विश्यान्यद्बुता सर्वाण्याश्चर्याणि चिकित्वान् प्रज्ञावानभि पश्यति । सर्वतोऽवलोकयति । या कृतानि यान्याश्चर्याणि पूर्वं वरुणेन संपादितानि । चकारादन्यानि यान्याश्चर्याणि कर्त्वा इतः परं कर्तव्यानि । तानि सर्वाण्यभिपश्यतीति पूर्वत्रान्वयः ॥ अद्भुता । शेश्छंदसि बहुलमिति शेर्लोपः । प्रत्ययलक्षणेन नपुंसकस्य झलचः (पा ७-१-७२) इति नुम् । नलोपः । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः । अभ्यासहलादिशेषचुत्वानि । वस्वेकाजाद्घसामिति नियमादिडभावः । रुत्वानुनासिकावुक्तौ संहितायाम् । पश्यति प्राघ्रेत्यादिना दृशेः पश्यादेशः । कर्त्वा । कृत्यार्थे तवैकेन्केन्यत्वनः (पा ३-४-१४) इति करो तेस्त्वन् । नित्त्वादाद्युदात्तत्वम् । पूर्ववच्छेर्लोपः ॥ ११ ॥