श्रवणम्

1.93.10
अग्नी᳚षोमाव॒नेन᳚ वां॒ यो वां᳚ घृ॒तेन॒ दाश᳚ति ।
तस्मै᳚ दीदयतं बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
अग्नी᳚षोमौ । अ॒नेन᳚ । वा॒म् । यः । वा॒म् । घृ॒तेन᳚ । दाश᳚ति ।
तस्मै᳚ । दी॒द॒य॒त॒म् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्नीषोमौ वां युवयोः संबंधी यो यजमानोऽनेन घृतेनोत्पवनादिभिः संस्कृतेनाज्येन युक्तं हविर्वां युवाभ्यां दाशति प्रयच्छति तस्मै यजमानाय बृहत्प्रभूतं धनं दीदयतम् । प्रकाशयतम् । प्रयच्चतमित्यर्थः ॥ दाशति । दाशृदाने । शप्तिपोः पित्त्वादनुदात्तत्वे । धातुस्वरः । यद्वृत्तयोगानिघातः । दीदयतम् । दीदयतिर्दीप्तिर्मा ॥ १० ॥