यु॒वं सिन्धू{4}᳚र॒भिश᳚स्तेरव॒द्यादग्नी᳚षोमा॒वमु᳚ञ्चतं गृभी॒तान् ॥
पदपाठः (Word-by-word)
यु॒वम् । सिन्धू᳚न् । अ॒भि॑श᳚स्तेः । अ॒व॒द्यात् । अग्नी᳚षोमौ । अमु᳚ञ्चतम् । गृ॒भी॒तान् ॥
सायणभाष्यम् (Sayana Commentary)
अग्निषोमीयस्य पशोर्वपापुरोडाशहविषां युवमेतानित्याद्यास्तिस्रऋचः क्रमेण याज्याः । सूत्रं तु पूर्वमेवोदाहृतम् । आ ३-८ ॥ पौर्णमासयागेऽग्नीषोमीयस्य पुरोडाशस्य युवमेतानीत्येषा याज्या । उक्ता देवता इति खंडे सूत्रितम् । युवमेतानि दिवि रोचनानींद्राग्नी अवसा गतम् (आ १-६) इति ॥
हे सोम त्वमग्निश्च सक्रतू समानकर्माणौ संतौ युवं युवां रोचनानि रोचमानानि दीप्यमानान्येतान्यस्माभिर्निशि दृश्यमानानि ताराग्रहादीनि ज्योतींषि दिवि द्युलोकेऽधत्तम् । अधारयतम् । उत्तरार्धस्येयमाख्यायिका । इंद्रो वृत्तं हत्वा ब्रह्महत्याया भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु च तां ब्रह्महत्वां न्यमार्क्षीत् तासामपां शुद्धिरग्नीषोमाभ्यां जातेति । ब्रह्महत्यांशेन पापेन गृभीतान् गृहीतानाक्रांतान् सिंधून् नदीविशेषान् हे अग्नीषोमौ युवामभिशस्तेरभिशस्यमानादभितः । प्रकटितादवद्यात्तस्मात्पापादमुंचतम् । मुक्तवंतौ । यद्वा । वृत्र इंद्रेण हतः सन् नदीषु पपात । ततो मृतेन वृत्रशरीरेण नद्यः सर्वा दुष्टा बभूवुः । तथा च तैत्तिरीयकम् । इंद्रो वृत्रमहन् सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत् । तै ब्रा ३-२-५-१ । इति । तेन दोषेण गृहीता नदीस्तस्माद्दोषादग्नीषोमौ मुक्तवंतौ ॥ रोचनानि । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । सिंधून् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिक इत्यनुनासिकः । गृभीतान् । हृग्रहोर्भ इति भत्वं ॥ ५ ॥