अग्नी᳚षोमा॒ यो अ॒द्य वा᳚मि॒दं वचः᳚ सप॒र्यति᳚ ।
तस्मै᳚ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् ॥
तस्मै᳚ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् ॥
पदपाठः (Word-by-word)
अग्नी᳚षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः᳚ । स॒प॒र्यति᳚ ।
तस्मै᳚ । ध॒त्त॒म् । सु॒॑वीर्य᳚म् । गवा᳚म् । पोष᳚म् । सु॒॑अश्व्य᳚म् ॥
तस्मै᳚ । ध॒त्त॒म् । सु॒॑वीर्य᳚म् । गवा᳚म् । पोष᳚म् । सु॒॑अश्व्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
यदा पौर्णमास्यामग्नि षोमावुपांशुयाजस्य देवता तदानीमग्निषोमा यो अद्येति तस्यानुवाक्या । सूत्रितं चोक्ता देवता इति खंडे । अग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभार (आ १-६) इति ॥
हे अग्निषोमौ यो यजमानोऽद्यास्मिन्कर्मणि वां युवाभ्यां युष्मदर्थमिदं स्तुतिलक्षणं वचो वाक्यं सपर्यति पूजितं करोति तस्मै यजमानाय गवां पशूनां पोषमभिवृद्धिं धत्त । प्रयच्छतम् । कीदृसं षोषम् । सुवीर्यं शोभनेन वीर्येण सामर्थ्येनोपेतं स्वश्व्यं शोभनैरश्वैर्यक्तं ॥ गवाम् । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः ॥ २ ॥