श्रवणम्

1.93.4
अग्नी᳚षोमा॒ चेति॒ तद्वी॒र्यं᳚ वां॒ यदमु᳚ष्णीतमव॒सं प॒णिं गाः ।
अवा᳚तिरतं॒ बृस᳚यस्य॒ शेषो॑वि᳚न्दतं॒ ज्योति॒रेकं᳚ ब॒हुभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अग्नी᳚षोमा । चेति᳚ । तत् । वी॒र्य᳚म् । वा॒म् । यत् । अमु᳚ष्णीतम् । अ॒व॒सम् । प॒णिम् । गाः ।
अव᳚ । अ॒ति॒र॒त॒म् । बृस᳚यस्य । शेषः᳚ । अवि᳚न्दतम् । ज्योतिः᳚ । एक᳚म् । ब॒हु॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्निषोमौ वां युवयोस्तद्वक्ष्यमाणं वीर्यं सामर्थ्यं चेति । अस्माभिर्ज्ञातमभूत् । यद्येन वीर्येण अवसं गोरूपमन्नं पणिं पणेः । विभक्तिव्यत्ययः । एतन्नाम्नोऽसुरादमुष्णीतं अपाहार्ष्टम् । तथा बृसयस्य । वृसिर्वेष्टनार्थः । वृसयति सर्वं वेष्टयतीति बृसयोऽसुरस्त्वष्टा । तस्यासुरस्य शेषोऽपत्यम् । शेष इत्यपत्यनाम । शिष्यते प्रयत इति यास्कः (नि ३-२) त्वष्वृसकाशादुत्पन्नं वृत्रमवातिरतम् । अवधिष्टम् । अवतिरतिर्वधकर्मा । प्राणापानरूपयोर्युवयोर्वृत्रेऽनवस्थानात्स मरणं प्राप्तः । तथा चाम्नायते । तस्माज्जंजभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहिताम् । तै । सं २-५-२-४ । इति । ततो वृत्रवधानंतरं ज्योतिर्द्योतमानं सूर्यमेकं नभसि गच्छंतं बहुभ्यो जनेभ्यो बहूनामर्थायाविंदतम् । अलप्साथाम् । एततत्सर्वं येन वीर्येण क्रियते तदस्माभिर्ज्ञातमित्यर्थः ॥ चिती । चती संज्ञाने । लुङि चिण् भावकर्मणोः पा ३- -६६ । इति च्णेश्चिणादेशः । चिणो लुगिति तशब्दस्य लुक् । आमुष्णीतम् । मुष स्तेये । क्रैयादिकः । अवसं अवतेरौणादिकोऽसच् । शेषः । सुपां सुलुगिति द्वितीयायाः सुः । एकम् । इण् गतौ । इण्भीकापाशल्यतिमर्चिभ्यः कन् (उ ३-४३) इति कन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥