श्रवणम्

1.93.3 समानपद
अग्नी᳚षोमा॒ य आहु᳚तिं॒ यो वां॒ दाशा᳚द्ध॒विष्कृ᳚तिम् ।
स प्र॒जया᳚ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य᳚श्नवत् ॥
▶ पदपाठः (Word-by-word)
अग्नी᳚षोमा । यः । आ॑हु᳚तिम् । यः । वा॒म् । दाशा᳚त् । ह॒विः॑कृ᳚तिम् ।
सः । प्र॒॑जया᳚ । सु॒॑वीर्य᳚म् । विश्व᳚म् । आयुः᳚ । वि । अ॒श्न॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्नीषोमौ यो यजमान आहुतिमाज्याहुतिं वां युवाभ्यां दाशात् दद्यात् । अथवा हविष्कृतिं हविषा चरुपुरोडाशादिना कृतामाहुतिं यो यजमानो दद्यात् । स यजमानः प्रजया पुत्रपौत्रादिना युक्तं सुवीर्यं शोभनवीर्ययुक्तं विश्वं सर्वमायुर्जीवनं व्यश्नवत् । व्याप्नोतु ॥ आहुतिम् । जुहोतेः क्तिनि तादौ चेति गतेः प्रकृतिस्वरत्वम् । दाशात् । दाशृ दाने । लेट्याडागमः । यद्वृत्तयोगादनिघातः । हविष्कृतिम् । हविषः कृति करणं यस्यामाहुतौ । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नित्यं समासेऽनुत्तरपदस्थस्येति विसर्जनीयस्यषत्वम् । अश्नवत् । अश्नोतेर्व्यत्ययेन परस्मैपदम् । लेट्यडागमः ॥ ३ ॥