अग्नी᳚षोमा पिपृ॒तमर्व᳚तो न॒ आ प्या᳚यन्तामु॒स्रिया᳚ हव्य॒सूदः᳚ ।
अ॒स्मे बला᳚नि म॒घव᳚त्सु धत्तं कृणु॒तं नो᳚ अध्व॒रं श्रु᳚ष्टि॒मन्त᳚म् ॥
अ॒स्मे बला᳚नि म॒घव᳚त्सु धत्तं कृणु॒तं नो᳚ अध्व॒रं श्रु᳚ष्टि॒मन्त᳚म् ॥
पदपाठः (Word-by-word)
अग्नी᳚षोमा । पि॒पृ॒तम् । अर्व᳚तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः᳚ । ह॒व्य॒॑सू॒दः᳚ ।
अ॒स्मे इति᳚ । बला᳚नि । म॒घव᳚त्॑सु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒॑मन्त᳚म् ॥
अ॒स्मे इति᳚ । बला᳚नि । म॒घव᳚त्॑सु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒॑मन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्नीषोमौ नोऽस्माकमर्वतोऽश्वान्पिपृतम् । पालयतम् । हव्यसूदः क्षीरादिहविष उत्पादयित्र्य उस्रिया अस्मदीया गावश्चा प्यायंताम् । आप्यायिताः प्रवृद्थाः संतु । मघवत्सु हविर्लक्षणधनयुक्तेष्वस्मे अस्मासु बलानि धत्तम् । स्थापयतम् । तथा नोऽस्माकमध्वरं यागं श्रुष्टिमंतं धनयुक्तं कृणुतम् । कुरुतं ॥ पिपृतम् । पृ पालनपूरणयोः । पृ इत्येके । जुहोत्यादित्वाच्छपः श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । हव्यसूदः । हव्यं सूदंते क्षरंतीति हव्यसूदः । षूद क्षरणे । क्विप्चेति क्विप् । अस्मे । सुपां सुलुगिति सप्तम्याः शे आदेशः । श्रुष्टिमंतम् । श्रुष्टीति धननाम । शु आश्वश्यते व्याप्यत इति श्रुष्टिः । पृषोदरादिः । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वं ॥ १२ ॥