सु॒शर्मा᳚णा॒ स्वव᳚सा॒ हि भू॒तमथा᳚ धत्तं॒ यज᳚मानाय॒ शं योः ॥
पदपाठः (Word-by-word)
सु॒॑शर्मा᳚णा । सु॒॑अव᳚सा । हि । भू॒तम् । अथ᳚ । ध॒त्त॒म् । यज᳚मानाय । शम् । योः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्निषोमौ प्रस्थितस्य होमार्थमाहवनीयसमीपं प्राप्तं हविष इदं हविर्वीतं भक्षयतम् । तदनंतरं च हर्यतम् । अस्मान्कामयेथाम् । हे वृषणाकामानां वर्षितारौ जुषेथाम् । अस्मदीयं परिचरणं सेवेथाम् । तदनंतरं सुशर्माणा शोभनसुखौ स्ववसा हि शोभनरक्षणौ च भूतम् । अस्माकं भवतम् । अथानंतरं हविर्दत्तवते यजमानाय शं शमनीयानां रोगाणां शमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं च धत्तम् । विधत्तम् । कुरुतम् । उक्तं च यास्केन । शमनं च रोगाणां यावनं च भयानाम् (नि ४-२१) इति ॥ हविषः । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । वीतम् । वी गतिप्रजनकांत्यशनखादनेषु । थसस्तम् । अदादित्वाच्छपो लुक् । वीतं च हर्यतं चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हर्यतम् । पादादित्वान्निघाताभावः । जुषेथाम् । वृषणेत्यामंत्रितस्यामंत्रितं पूर्वमित्यविद्यमानवत्त्वे सति तिङः परत्वान्निघाताभावः । सुशर्माणा स्ववसा । उभयत्र बहुव्रीहौ सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । भूतम् । लोट बहुलं छंदसीति शपो लुक् ॥ ७ ॥