श्रवणम्

1.93.8
यो अ॒ग्नीषोमा᳚ ह॒विषा᳚ सप॒र्याद्दे᳚व॒द्रीचा॒ मन᳚सा॒ यो घृ॒तेन᳚ ।
तस्य᳚ व्र॒तं र᳚क्षतं पा॒तमंह᳚सो वि॒शे जना᳚य॒ महि॒ शर्म᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ग्नीषोमा᳚ । ह॒विषा᳚ । स॒प॒र्यात् । दे॒व॒द्रीचा᳚ । मन᳚सा । यः । घृ॒तेन᳚ ।
तस्य᳚ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह᳚सः । वि॒शे । जना᳚य । महि᳚ । शर्म᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यजमानोऽग्नीषोमा अग्नीषोमौ देवद्रीचा देवानंचता देवतापरायणेन श्रद्धायुक्तेन मनसांतःकरणेन युक्तः सन् हविषा चरुपुरोडाशादिनासपर्यात् । सपर्यति परिचरति । यश्च यजमानो घृतेनाज्येनाग्नीषोमौ परिचरति । तस्य यजमानस्य व्रतं कर्म रक्षतम् । अंहसः पापात्तं च यजमानं पातम् । रक्षतम् । विशे यागेषु प्रविशते तस्मै जनाय यजमानाय महि महत्प्रभूतं शर्म सुखं यच्छतम् । दत्तं ॥ अग्निषोमा । देवताद्वंद्वे । चेत्युभयपदप्रकृतिस्वरत्वम् । सपर्यात् । सपर पूजायाम् । कंड्वादिः । लेट्याडागमः । देवद्रीचा । सेवानंचतीति सेवद्र्यङ् । अंचतेर्ऋत्विगित्यादिनाक्विन् । अनिदितामिति नलोपः । विषग्देवयोश्च टीरद्र्यंचतावप्रत्यये (पा ६-३-९२) इति देवशब्दस्य टेरद्र्यादेशः । तृतीयैकवचनेऽद्रिसध्र्योरंतोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । पा ६-३-९५-१ । इति वचनादद्र्यादेशोऽंतोदात्तः । विशे । सावेकाच इति विभक्तरुदात्तत्वं ॥ ८ ॥