अग्नी᳚षोमावि॒मानि᳚ नो यु॒वं ह॒व्या जु᳚जोषतम् ।
आ या᳚त॒मुप᳚ न॒ः सचा᳚ ॥
आ या᳚त॒मुप᳚ न॒ः सचा᳚ ॥
पदपाठः (Word-by-word)
अग्नी᳚षोमौ । इ॒मानि᳚ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् ।
आ । या॒त॒म् । उप᳚ । नः॒ । सचा᳚ ॥
आ । या॒त॒म् । उप᳚ । नः॒ । सचा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्नीषोमौ युवं युवां नोऽस्मदीयानीमानि हव्या हवींषि जुजोषतम् । सेवेथाम् । तदर्थं नोस्मान् सचा सह युवामुपा यातम् । उपागच्छतं ॥ जुजोषतम् । जुषी प्रीतिसेवनयोः । लोट व्यत्ययेन शप् । छांदसं द्विर्वचनम् । यद्वा । विकरणस्य बहुलं छंदसीति श्लुः । ततो व्यत्ययेन शप् । बहुलं छंदसीति वक्तव्यमिति वचनान्नाभ्यस्तस्याचि पितीति लघूपधगुणप्रतिषेधाभावः ॥ ११ ॥