अग्नी᳚षोमा॒ ब्रह्म᳚णा वावृधा॒नोरुं य॒ज्ञाय᳚ चक्रथुरु लो॒कम् ॥
पदपाठः (Word-by-word)
अग्नी᳚षोमा । ब्रह्म᳚णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय᳚ । च॒क्र॒थुः॒ । ऊं॒ इति᳚ । लो॒कम् ॥
सायणभाष्यम् (Sayana Commentary)
अग्नीषोमीयस्योपांशुयाजस्यान्यं दिव इत्येषा याज्या । अग्नीषोमा यो अद्य वामित्यत्र सूत्रमुदाहृतं ॥
हे अग्नीषोमौ युवयोर्मध्येऽन्यमेकमग्निं मातरिश्वा वायुर्दिवो द्युलोकादा जभार भृगवे यजमानायाजहार । तथा च मंत्रांतरम् । द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा । ऋग्वे १-६०-१ । इति । श्येनः शंसनीयगतिमान्बक्षी पक्ष्याकारा गायत्र्यन्यं सोममद्रेः परि मेरोरुपर्यवस्थितात्स्वर्गादमथ्नात् । बलादाहृतवती । एवं महानुभावौ युवां ब्रह्मणा स्रष्ट्रा मंत्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन वा ववृधाना वर्धमानौ युवां यज्ञायान्येषां देवानां यागायोरुं विस्तीर्णं लोकं स्थानं चक्रथुः । कृतवंतौ । उ इत्येतत्पादपूरणम् । आज्यभागदेवतयोरग्नीषोमयोरुत्तरार्धदक्षिणार्धयोर्हूयते । तन्मध्येऽन्यदेवत्यानि सर्वाणि हवींषि हूयंते । तन्मध्यमं स्थानमग्नीषोमकृतम् । तथा च तैत्तरीयकम् । राजानौ वा एतौ देवानां यदग्निषोमावंतरा देवता इज्येते देवतानां विधृत्या इति ॥ ववृधाना । वृधेर्लिटः कानच् । छांदसमभ्यासस्य दीर्घत्वम् । सुपां सुलुगित्याकारः ॥ ६ ॥