अग्नी᳚षोमा॒ सवे᳚दसा॒ सहू᳚ती वनतं॒ गिरः᳚ ।
सं दे᳚व॒त्रा ब᳚भूवथुः ॥
सं दे᳚व॒त्रा ब᳚भूवथुः ॥
पदपाठः (Word-by-word)
अग्नी᳚षोमा । स॑वे᳚दसा । सहू᳚ती॒ इति॒ स॑हू᳚ती । व॒न॒त॒म् । गिरः᳚ ।
सम् । दे॒व॒॑त्रा । ब॒भू॒व॒थुः॒ ॥
सम् । दे॒व॒॑त्रा । ब॒भू॒व॒थुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
पौर्णमासयागेऽग्नीषोमीयस्य यागस्याग्नीषोमेत्येषानुवाक्या । तथा च सूत्रितमुक्ता देवता इति खंडे । अग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानि । आ ॥ १-६ । इति
हे अग्नीषोमौ युवां सवेदसा समानेनैकेन वेदसा हविर्लक्षणेन धनेन युक्तौ सहूती समानह्वानौ च संतौ गिरोऽस्मदीयाः स्तुतीर्वनतम् । संभजेथाम् । देवत्रा देवेषु सर्वेषु यौ युवां सं बभूवथुः संभूतौ संभावितौ प्रशस्तौ स्थः । राजानौ वा एतौ देवतानां यदग्नीषोमाविति श्रुतेः ॥ सवेदसा । समानं वेदो ययोः । समानस्य च्छंदसीति सभावः । वनतम् । वन षण संभक्तौ । देवत्रा । देवमनुष्यपुरुषपुरुमर्त्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥ ९ ॥