द्यावा᳚ ह॒ क्षामा᳚ प्रथ॒मे ऋ॒तेना᳚भिश्रा॒वे भ᳚वतः सत्य॒वाचा᳚ ।
दे॒वो यन्मर्ता᳚न्य॒जथा᳚य कृ॒ण्वन् सीद॒द्धोता᳚ प्र॒त्यङ्स्वमसुं॒ यन् ॥
दे॒वो यन्मर्ता᳚न्य॒जथा᳚य कृ॒ण्वन् सीद॒द्धोता᳚ प्र॒त्यङ्स्वमसुं॒ यन् ॥
पदपाठः (Word-by-word)
द्यावा᳚ । ह॒ । क्षामा᳚ । प्र॒थ॒मे इति᳚ । ऋ॒तेन᳚ । अ॒भि॒॑श्रा॒वे । भ॒व॒तः॒ । स॒त्य॒॑वाचा᳚ ।
दे॒वः । यत् । मर्ता᳚न् । य॒जथा᳚य । कृ॒ण्वन् । सीद᳚त् । होता᳚ । प्र॒त्यङ् । स्वम् । असु᳚म् । यन् ॥
दे॒वः । यत् । मर्ता᳚न् । य॒जथा᳚य । कृ॒ण्वन् । सीद᳚त् । होता᳚ । प्र॒त्यङ् । स्वम् । असु᳚म् । यन् ॥
सायणभाष्यम् (Sayana Commentary)
सत्यवाचा सत्यवाचौ सत्यवादिन्यौ प्रधानभूते द्यावाक्षामा द्युक्षामे द्यावापृथिव्यौ ऋतेन सत्यभूतेन देवयजनेन सह अभिश्रावे आभिमुख्येन श्रूयते इत्यभिश्रावआह्वानं तस्मिन्नस्मद्यज्ञनिमित्ते अग्नेः संबन्धिनि आह्वाने भवतः लोडर्थे लट् भवतां यद्यदा देवोद्योतमानोग्निः यजथाय यज्ञाय मर्तान् मनुष्यान् कृण्वन् प्रेरयन् प्रत्यङ् आह्वानार्थं देवानां प्रत्यंचितास्वमसुं आत्मीयं ज्वालालक्षणं प्राणं यन् प्राप्नुवन् होता देवानामा- ह्वाता सीदत् वेद्यां निषीदति तदास्मद्यागकाले द्यावापृथिवी प्राणं यन् प्राप्नुवन् होता देवानामाह्वाता सीदत् वेद्यां निषीदति तदास्मद्यागकाले द्यावाप्ऋथिवी प्रमुखोग्नि- राह्वयत्वित्यर्थः ॥ १ ॥