श्रवणम्

10.12.9
श्रु॒धी नो᳚ अग्ने॒ सद᳚ने स॒धस्थे᳚ यु॒क्ष्वा रथ᳚म॒मृत᳚स्य द्रवि॒त्नुम् ।
आ नो᳚ वह॒ रोद᳚सी दे॒वपु᳚त्रे॒ माकि᳚र्दे॒वाना॒मप᳚ भूरि॒ह स्या᳚ः ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद᳚ने । स॒ध॑स्थे᳚ । यु॒क्ष्व । रथ᳚म् । अ॒मृत᳚स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद᳚सी॒ इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । माकिः᳚ । दे॒वाना᳚म् । अप᳚ । भूः॒ । इ॒ह । स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रुधीनइत्येषा नवमी पूर्वसूक्ते व्याख्याता ॥ ९ ॥

युजेवामिति पंचर्चं त्रयोदशं सूक्तं अदितेः पुत्रस्य विवस्वतआर्षं हविर्धानाख्ये ये द्वे- शकटे तद्देवत्यमिदं अन्त्या जगती शिष्टास्त्रिष्टुभः । तथाचानुक्रान्तं—युजेपंचविवस्वानादि- त्योहविर्धनंजगत्यन्तमिति । गतः सूक्तविनियोगः । हविर्धानप्रवर्तने युजेवामित्येका । सूत्रि- तंच—अन्तरावर्त्मपादयोर्युजेवांब्रह्मपूर्व्यंनमोभिरिति ।