श्रवणम्

10.12.4
अर्चा᳚मि वां॒ वर्धा॒यापो᳚ घृतस्नू॒ द्यावा᳚भूमी शृणु॒तं रो᳚दसी मे ।
अहा॒ यद्द्यावो॑सु᳚नीति॒मय॒न्मध्वा᳚ नो॒ अत्र᳚ पि॒तरा᳚ शिशीताम् ॥
▶ पदपाठः (Word-by-word)
अर्चा᳚मि । वा॒म् । वर्धा᳚य । अपः᳚ । घृ॒त॒स्नू॒ इति᳚ घृत॑स्नू । द्यावा᳚भूमी॒ इति᳚ । शृ॒णु॒तम् । रो॒द॒सी॒ इति᳚ । मे॒ ।
अहा᳚ । यत् । द्यावः᳚ । असु᳚॑नीतिम् । अय᳚न् । मध्वा᳚ । नः॒ । अत्र᳚ । पि॒तरा᳚ । शि॒शी॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं अपः मदीयं यज्ञरूपं कर्म वर्धाय प्रोत्सर्पिते सति हे घृतस्नू वृष्ट्युदकस्य प्रसवित्र्यौ हे द्यावाभूमी द्यावापृथिव्यौ वां युवां अर्चामि ऋचस्तुतौ स्तौमि । हे रोदसी द्यावापृथिव्यौ युवां मे मदीयं स्तोत्रं श्रृणुतं यद्यस्मिन् अहा अहःशब्दः सामर्थ्यादहोरात्र- साध्यं कर्मोच्यते सुपांसुलुगिति सप्तम्येकवचनस्याजादेशः अहनि अहोरात्रस्य साध्यकर्मणि द्यावः स्तोतारः असुनीतिं असुः प्रज्ञा तया नीग्तेइत्यसुनीतिः स्तुतिः तां अयन् गच्छन्ति अत्रास्मिन् कर्मणि पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ नोस्मान् मध्वा वृष्ट्युद- केन शिशीतां स्नानपानादिना संस्कुरुतां ॥ ४ ॥