श्रवणम्

10.12.8 समानपद
यस्मि᳚न्दे॒वा मन्म᳚नि सं॒चर᳚न्त्यपी॒च्ये॒३॒᳚ न व॒यम᳚स्य विद्म ।
मि॒त्रो नो॒ अत्रादि᳚ति॒रना᳚गान्त्सवि॒ता दे॒वो वरु᳚णाय वोचत् ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । दे॒वाः । मन्म᳚नि । स॒म्॑चर᳚न्ति । अ॒पी॒च्ये᳚ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।
मि॒त्रः । नः॒ । अत्र᳚ । अदि᳚तिः । अना᳚गान् । स॒वि॒ता । दे॒वः । वरु᳚णाय । वो॒च॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाइन्द्रादयः यस्मिन्नग्नौ मन्मनि ज्ञानभूते ज्ञानवत्सर्वप्रकाशके सति संचरन्ति स्वाधि कारे संप्रवर्तन्ते । अपीच्येन्तर्हिते स्थितमस्याग्नेः स्वरूपं वयं नविद्म तत्वतोनजानीमः अत्रास्मिन्यज्ञे अंगभावाय वर्तमानोमित्रः वरुणाय सर्वेषां पापानां निवारयित्रे अग्नये नोस्मान् अनागानपापान् वोचत् ब्रवीतु । तथा अदितिर्देवमाता सविता सर्वस्य प्रेरको- देवश्च ब्रवीतु ॥ ८ ॥