श्रवणम्

10.12.2
दे॒वो दे॒वान्प᳚रि॒भूरृ॒तेन॒ वहा᳚ नो ह॒व्यं प्र᳚थ॒मश्चि᳚कि॒त्वान् ।
धू॒मके᳚तुः स॒मिधा॒ भाऋ᳚जीको म॒न्द्रो होता॒ नित्यो᳚ वा॒चा यजी᳚यान् ॥
▶ पदपाठः (Word-by-word)
दे॒वः । दे॒वान् । प॒रि॒॑भूः । ऋ॒तेन᳚ । वह᳚ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।
धू॒म॑के᳚तुः । स॒म्॑इधा᳚ । भाः॑ऋ᳚जीकः । म॒न्द्रः । होता᳚ । नित्यः᳚ । वा॒चा । यजी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतमानोग्निस्त्वं देवानिन्द्रादीन् परिभूः आह्वानहविर्नयनद्वारेण परिभूः परिगृ- ह्णन् ऋतेन यज्ञेन सह नोस्माकं हव्यं हविः वह प्रापय । कीदृशस्त्वं प्रथमोदेवानां मुख्यः चिकित्वान् सर्वं जानन् धूमकेतुः धूमस्य कर्ता वा धूमध्वजोवा धूमप्रज्ञानोवा समिधा समिंधनेन संदीपनेन भाऋजीकः ऋजुदीप्तिरूर्ध्वज्वलनइत्यर्थः मन्द्रः स्तुत्यः होता आ- ह्वाता नित्योध्रुवः वाचा यजीयान् अतिशयेन यष्टा च ॥ २ ॥