श्रवणम्

10.12.3
स्वावृ᳚ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो᳚ जा॒तासो᳚ धारयन्त उ॒र्वी ।
विश्वे᳚ दे॒वा अनु॒ तत्ते॒ यजु᳚र्गुर्दु॒हे यदेनी᳚ दि॒व्यं घृ॒तं वाः ॥
▶ पदपाठः (Word-by-word)
स्वावृ᳚क् । दे॒वस्य᳚ । अ॒मृत᳚म् । यदि᳚ । गोः । अतः᳚ । जा॒तासः᳚ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति᳚ ।
विश्वे᳚ । दे॒वाः । अनु᳚ । तत् । ते॒ । यजुः᳚ । गुः॒ । दु॒हे । यत् । एनी᳚ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवस्याग्नेः स्वावृक् स्वार्जनं अमृतमुदकं स्वतेजसः सकाशाद्यादि यदा उत्पद्यते तदा अतोस्मात् गोरुदकाज्जातासउप्तन्नाओषधयः उर्वी द्यावापृथिव्यौ धारयन्ते विश्वेदेवाः सर्वे स्तोतारः ते तव संबन्धि तद्यजुः उदकस्य तद्दानं अनुगुः अनुगायन्ति एनी शेता दीप्तिः दिव्यं दिविभवं घृतं क्षरत् यद्वा वृष्टिलक्षणं यदुदकं दुहे दोग्धि ॥ ३ ॥