श्रवणम्

10.12.7
यस्मि᳚न्दे॒वा वि॒दथे᳚ मा॒दय᳚न्ते वि॒वस्व᳚त॒ः सद᳚ने धा॒रय᳚न्ते ।
सूर्ये॒ ज्योति॒रद᳚धुर्मा॒स्य१॒᳚क्तून्परि᳚ द्योत॒निं च᳚रतो॒ अज᳚स्रा ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । दे॒वाः । वि॒दथे᳚ । मा॒दय᳚न्ते । वि॒वस्व᳚तः । सद᳚ने । धा॒रय᳚न्ते ।
सूर्ये᳚ । ज्योतिः᳚ । अद᳚धुः । मा॒सि । अ॒क्तून् । परि᳚ । द्यो॒त॒निम् । च॒र॒तः॒ । अज᳚स्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्नग्नौ यज्ञस्य प्रधानांशे सति देवाइन्द्रादयोविदथे यज्ञे मादयन्ते । हविषात्मानं तर्पयन्ति तृप्यन्तिवा । अपिच विवस्वतोमनुष्यस्य यजमानस्य स्वभूते सदने वेद्याख्ये स्थाने धारयन्ते आत्मानं स्थापयन्तिच । किंच सूर्ये ज्योतिरहराख्यं तेजः अदधुः स्थपि- तवन्तः । मासि चन्द्रमसि अक्तून् रात्रीः स्थापितवन्तः । तदनंतरं अजस्रा अनुपक्षीणौ सूर्याचन्द्रमसौ द्योतनिं दीप्तिं परिचरतः परिगच्छतः सर्वत्र प्राप्नुतः ॥ ७ ॥