श्रवणम्

10.33.2
सं मा᳚ तपन्त्य॒भितः᳚ स॒पत्नी᳚रिव॒ पर्श᳚वः ।
नि बा᳚धते॒ अम᳚तिर्न॒ग्नता॒ जसु॒र्वेर्न वे᳚वीयते म॒तिः ॥
▶ पदपाठः (Word-by-word)
सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः᳚ । स॒पत्नीः᳚॑इव । पर्श᳚वः ।
नि । बा॒ध॒ते॒ । अम᳚तिः । न॒ग्नता᳚ । जसुः᳚ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मा मां देवताप्रसादरहितं कवषं वर्शवः पार्श्वास्थीनि अन्नाभावाद्दौर्बल्यात् कुशयनाच्च सपत्नीरिव यथासपत्न्यः तद्वदभितउभयतः संतपंति दुःखयंतीत्यर्थः । किंच अमतिर्दारिद्मा- दागता दुर्मतिः सर्वार्थविषया सा निबाधते मां पीडयति वस्राभावादागता नग्नता च मां निवाधते जसुः अशनाभावादागतउपक्षयोपि मां निबाधते । किंच वेर्न यथा पक्षिणोमतिः शाकुनिकव्याधभयात् कंपयते तथा मे मतिः शत्रोर्वेवीयते भृशं कंपयते ॥ २ ॥