श्रवणम्

10.33.4
कु॒रु॒श्रव᳚णमावृणि॒ राजा᳚नं॒ त्रास᳚दस्यवम् ।
मंहि᳚ष्ठं वा॒घता॒मृषि᳚ः ॥
▶ पदपाठः (Word-by-word)
कु॒रु॒॑श्रव᳚णम् । अ॒वृ॒णि॒ । राजा᳚नम् । त्रास᳚दस्यवम् ।
मंहि᳚ष्ठम् । वा॒घता᳚म् । ऋषिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरतींद्रियार्थद्रष्टा कवषोहं त्रासदस्यवं त्रसदस्योः पुत्रं मंहिष्ठं धनानामतिशयेन दा- तारं कुरुश्रवणं कुरवऋत्विजः तदीयानां स्तुतीनां श्रोतारं कुरुश्रवणं तन्नामकं राजानं वाघ तां ऋत्विजामर्थाय अवृणि धनानि प्रार्थये ॥ ४ ॥