श्रवणम्

10.33.7
अधि᳚ पुत्रोपमश्रवो॒ नपा᳚न्मित्रातिथेरिहि ।
पि॒तुष्टे᳚ अस्मि वन्दि॒ता ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । पु॒त्र॒ । उ॒प॒म॒॑श्र॒वः॒ । नपा᳚त् । मि॒त्र॒॑अ॒ति॒थेः॒ । इ॒हि॒ ।
पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुत्रोपमश्रवः मित्रातिथेर्नपात् पुत्रः त्वं अधीहि मत्समीपमागच्छ ते तव पितुस्तस्य मित्रातिथेरहं वंदिता स्तोतास्मि एतत् ज्ञात्वा शोकं मा कुरु यद्देयं द्रव्यमस्ति तत्सर्वं मह्यं देहि ॥ ७ ॥