श्रवणम्

10.33.8
यदीशी᳚या॒मृता᳚नामु॒त वा॒ मर्त्या᳚नाम् ।
जीवे॒दिन्म॒घवा॒ मम᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ईशी᳚य । अ॒मृता᳚नाम् । उ॒त । वा॒ । मर्त्या᳚नाम् ।
जीवे᳚त् । इत् । म॒घ॑वा᳚ । मम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच यद्यमृतानां देवानां मर्त्यानां मनुष्याणां वा मरणहेतूनामीशीय अहमीश्वरः स्यां तर्हि मम कवषस्य याज्योमघवा धनवान्मित्रातिथीराजा जीवेत् प्राणान् धारयेत् । तथाच नाहं मरणहेतोरीश्वरस्तस्मादयं राजा मृतइत्यर्थः ॥ ८ ॥