यस्य॒ प्रस्वा᳚दसो॒ गिर᳚ उप॒मश्र᳚वसः पि॒तुः ।
क्षेत्रं॒ न र॒ण्वमू॒चुषे᳚ ॥
क्षेत्रं॒ न र॒ण्वमू॒चुषे᳚ ॥
पदपाठः (Word-by-word)
यस्य᳚ । प्र॑स्वा᳚दसः । गिरः᳚ । उ॒प॒म॑श्र᳚वसः । पि॒तुः ।
क्षेत्र᳚म् । न । र॒ण्वम् । ऊ॒चुषे᳚ ॥
क्षेत्र᳚म् । न । र॒ण्वम् । ऊ॒चुषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे राजन् उपमश्रवसस्तव पितुर्यस्य मित्रातिथेर्गिरोवाचः प्रस्वादसः प्रकर्षेण स्वादपि- त्र्यः । तत्र दृष्टांतः—ऊचुषे सेवमानाय दरिद्राय दानार्थं प्रकल्पितं रण्वं रमणीयं क्षेत्रं च यथा क्षेत्रं स्वदयितृ तद्वदित्यर्थः । उत्तरत्र संबंधः ॥ ६ ॥