श्रवणम्

10.33.3
मूषो॒ न शि॒श्ना व्य᳚दन्ति मा॒ध्य᳚ः स्तो॒तारं᳚ ते शतक्रतो ।
स॒कृत्सु नो᳚ मघवन्निन्द्र मृळ॒याधा᳚ पि॒तेव᳚ नो भव ॥
▶ पदपाठः (Word-by-word)
मूषः᳚ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒॑ध्यः᳚ । स्तो॒तार᳚म् । ते॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
स॒कृत् । सु । नः॒ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध᳚ । पि॒ता॑इ᳚व । नः॒ । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मन् मघवन्निंद्र ते तव स्तोतारं मा मां कवषं आध्यः आधयः मू- षोन यथा मूषिकाः शिश्ना स्नातानि सूत्राण्यश्नंति तथा व्यदंति विविधमदंति । तथाच यास्कः—संतपंतिमामभितः सपत्न्यइवेमाः पर्शवः कूपपर्शवोमूषिकाइवास्नातानि सूत्राणि व्यदंति स्वांगाभिधानं वास्यात् शिश्नानि व्यदंतीति वा संतपंति माध्यः कामाइति । तथा च सति हे इंद्र नोस्मान्सकृत्सुमृळयाभीष्टप्रदानेन सम्यक् सुखय अध अथ नोस्माकं पि- तेव यथा पिता तद्वद्रक्षिता भव ॥ ३ ॥