श्रवणम्

10.33.5
यस्य᳚ मा ह॒रितो॒ रथे᳚ ति॒स्रो वह᳚न्ति साधु॒या ।
स्तवै᳚ स॒हस्र᳚दक्षिणे ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । मा॒ । ह॒रितः᳚ । रथे᳚ । ति॒स्रः । वह᳚न्ति । सा॒धु॒॑या ।
स्तवै᳚ । स॒हस्र᳚॑दक्षिणे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य कुरुश्रवणाख्यस्य राज्ञः स्वभूतास्तिस्रोहरितः त्रयोश्वा रथे प्रस्थितं मा मां कषवं साधुया साधुवहंति कुरुश्रवणं राजानमहं सहस्रदक्षिणेस्मिन् यागे स्तवै स्तौमि प्रष्टिवा- हिनं रथं च परिगृह्य ऋषिराशास्ते ॥ ५ ॥ अतः परं यस्येत्यादिकेन सूक्तशेषेण मित्रातिथौ राज्ञि मृते तत्पुत्रस्योपमश्रवसः समी- पमागत्यकवषः स्नेहात् शोकं निवारयति ।