श्रवणम्

10.78.1 समानपद
विप्रा᳚सो॒ न मन्म᳚भिः स्वा॒ध्यो᳚ देवा॒व्यो॒३॒᳚ न य॒ज्ञैः स्वप्न᳚सः ।
राजा᳚नो॒ न चि॒त्राः सु᳚सं॒दृशः᳚ क्षिती॒नां न मर्या᳚ अरे॒पसः᳚ ॥
▶ पदपाठः (Word-by-word)
विप्रा᳚सः । न । मन्म᳚॑भिः । सु॒॑आ॒ध्यः᳚ । दे॒व॒॑अ॒व्यः᳚ । न । य॒ज्ञैः । सु॒॑अप्न᳚सः ।
राजा᳚नः । न । चि॒त्राः । सु॒॑स॒न्दृशः᳚ । क्षि॒ती॒नाम् । न । मर्याः᳚ । अ॒रे॒पसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रास इत्यष्टर्चम् दशमं सूक्तम्। पञ्चम्याद्यास्तिस्रो द्वितीया चेति चतस्रो जगत्यः। शिष्ताश्चतस्रस्त्रिष्टुभः। पूर्ववदृषिदेवते। तथा चानुक्रान्तम्। विप्रासो द्वितीया पञ्चम्याद्याश्च तिस्रो जगत्य इति। गतो विनियोगः॥

विप्रासो न विप्रा ब्राह्मना इव ते यथा मन्मभिः स्तुतिभिः स्वाध्यः शोभनाध्याना भवन्ति एवं मरुतोऽप्यस्मदीयैर्मन्मभिर्मननीयैः स्तोत्रैः स्वाध्यः सुमनसो भवन्ति। अथव मन्मभिः स्तोत्रैर्युक्ता विप्रासो न मेधाविनः स्तोतार इव स्वाध्यो यज्ञे यजमाने वा सुध्याना इत्यर्थः। तथा यज्ञैर्यागैर्देवाव्यो न देवानां तर्पयितारो ये यजमाना इव स्वप्नसः। अप्न इति कर्मनाम। शोभनकर्माणः। ते यथा कर्मसु व्याप्उता भवन्ति तद्वद्वृश्टिप्रदानादिकर्मसु व्यापृता भवन्ति। राजानो न मूर्धाभिषिक्ताः क्षितिपतय इव चित्राश्चायनीयाः पूजनीयाः। यद्वा चित्राभरणाः। तथा सुसंदृशः सुष्ठु दर्शनीयाः। तथा क्षितीनांनिवासानां स्वामिनो मर्या न मनुष्या इवारेपसोऽपापाः। यथा प्रतिग्रहार्थमन्यत्रागत्वा स्वगृह एवानुतिष्ठन्तो निर्दोषा भवन्ति तादृशा इत्यर्थः। ईदृशाः शोभन्त इत्यर्थः॥१॥