श्रवणम्

10.78.7
उ॒षसां॒ न के॒तवो᳚॑ध्वर॒श्रियः᳚ शुभं॒यवो॒ नाञ्जिभि॒र्व्य᳚श्वितन् ।
सिन्ध᳚वो॒ न य॒यियो॒ भ्राज᳚दृष्टयः परा॒वतो॒ न योज᳚नानि ममिरे ॥
▶ पदपाठः (Word-by-word)
उ॒षसा᳚म् । न । के॒तवः᳚ । अ॒ध्व॒र॒॑श्रियः᳚ । शु॒भ॒म्॑यवः᳚ । न । अ॒ञ्जि॑भिः᳚ । वि । अ॒श्वि॒त॒न् ।
सिन्ध᳚वः । न । य॒यियः᳚ । भ्राज᳚त्॑ऋष्टयः । प॒रा॒॑वतः᳚ । न । योज᳚नानि । म॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुत उषसाम् न केवव उषसां रश्मय इवाध्वरश्रियो यज्ञस्याश्रयितारो भवन्ति। तथा शुभंयवो न कल्याणकामा वरा इवांञ्जिभिराभरणैर्व्यश्वितन् दीप्यन्ते। श्विता वर्णे। लङि रूपम्। तथा सिन्धवो न नद्य इव ययियो गमनशीला भ्राजदृष्टयो दीप्यमानायुधाः परावतो न दूरध्वनीना वडवा इव योजनानि दूरदेशान्ममिरे। परिच्छिन्दन्ति। तेऽस्मद्यज्ञमागच्छन्त्विति॥७॥