श्रवणम्

10.78.5 समानपद
अश्वा᳚सो॒ न ये ज्येष्ठा᳚स आ॒शवो᳚ दिधि॒षवो॒ न र॒थ्य᳚ः सु॒दान᳚वः ।
आपो॒ न नि॒म्नैरु॒दभि᳚र्जिग॒त्नवो᳚ वि॒श्वरू᳚पा॒ अङ्गि᳚रसो॒ न साम᳚भिः ॥
▶ पदपाठः (Word-by-word)
अश्वा᳚सः । न । ये । ज्येष्ठा᳚सः । आ॒शवः᳚ । दि॒धि॒षवः᳚ । न । र॒थ्यः᳚ । सु॒॑दान᳚वः ।
आपः᳚ । न । नि॒म्नैः । उ॒द॑भिः᳚ । जि॒ग॒त्नवः᳚ । वि॒श्व॑रू᳚पाः । अङ्गि᳚रसः । न । साम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतोऽश्वासो नाश्वा इव ज्येष्ठा प्रशस्यतमा आशवह् शीघ्रगमनाः। तथा दिधिषवो न वसूनां धारका इव रथ्यो रथस्वामिनः सुदानवः सुदानाः। तथापो नाप इव निम्नैः प्रवणगैरुदभिरुदकैः सह जिगत्नवो गमनशीलाः। तथा विश्वरूपा नानारूपाः सामभिर्युक्ता अङ्गिरसो नाङ्गिरस इव। सर्वदा सामगा इत्यर्थः॥५॥