श्रवणम्

10.78.3
वाता᳚सो॒ न ये धुन᳚यो जिग॒त्नवो᳚॑ग्नी॒नां न जि॒ह्वा वि᳚रो॒किणः᳚ ।
वर्म᳚ण्वन्तो॒ न यो॒धाः शिमी᳚वन्तः पितॄ॒णां न शंसा᳚ः सुरा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
वाता᳚सः । न । ये । धुन᳚यः । जि॒ग॒त्नवः᳚ । अ॒ग्नी॒नाम् । न । जि॒ह्वाः । वि॒॑रो॒किणः᳚ ।
वर्म᳚ण्॑वन्तः᳚ । न । यो॒धाः । शिमी᳚॑वन्तः । पि॒तॄ॒णाम् । न । शंसाः᳚ । सु॒॑रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतो वातासो न वायव इव धुनयः शत्रूणां कम्पयितारो जिगत्नवो गमनशीलाः। अत्र मारुते सूक्ते मरुतामेव दृष्टान्त कथनं सञ्चरण स्वभाववायुपदार्थतदभिमानिदेवताभेदेनाविरुद्धम् । तथग्नीनां न जिह्वा अग्नीनां ज्वाला इव विरोकिणो विरोचनशीलमुखाः। तथा वर्मण्वन्तो न योधाः कवचिनो योद्धार इव शिमीवन्तः शौर्यकर्मवन्तः। तथा पितॄणाम् न शंसाः पितॄणाम् जनकानां शंसा वाच इव सुरातयः सुदानाः। एवं महानुभावा ते मरुतोऽस्मद्यज्ञमागच्छन्तु॥३॥