श्रवणम्

10.78.2 समानपद
अ॒ग्निर्न ये भ्राज᳚सा रु॒क्मव᳚क्षसो॒ वाता᳚सो॒ न स्व॒युजः᳚ स॒द्यऊ᳚तयः ।
प्र॒ज्ञा॒तारो॒ न ज्येष्ठा᳚ः सुनी॒तयः᳚ सु॒शर्मा᳚णो॒ न सोमा᳚ ऋ॒तं य॒ते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । न । ये । भ्राज᳚सा । रु॒क्म॑व᳚क्षसः । वाता᳚सः । न । स्व॒॑युजः᳚ । स॒द्यः॑ऊ᳚तयः ।
प्र॒॑ज्ञा॒तारः᳚ । न । ज्येष्ठाः᳚ । सु॒॑नी॒तयः᳚ । सु॒॑शर्मा᳚णः । न । सोमाः᳚ । ऋ॒तम् । य॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतोऽग्निर्नाग्निरिव स यथा भ्राजसा तेजसा शोभते तद्वद्भ्राजसा युक्ताः किञ्च रुक्मवक्षसो रुक्मालङ्कृतवक्षस्कावातासो न प्रत्यक्षवाता इव स्वयुजः स्वयं युज्यमानाः सद्य ऊतयः सद्योगमनाः प्रज्ञातारो न प्रकर्षेण ज्ञातारो ज्ञानिन इव ज्येष्ठाः पूज्याः सुनीतयः सुनयनाः सुशर्माणो न सोमाः सुसुखाः सोमा इव ते यूयमृतं यते यज्ञम् गच्छते यजमानाय गच्छतेति॥२॥