ग्रावा᳚णो॒ न सू॒रय॒ः सिन्धु᳚मातर आदर्दि॒रासो॒ अद्र᳚यो॒ न वि॒श्वहा᳚ ।
शि॒शूला॒ न क्री॒ळयः᳚ सुमा॒तरो᳚ महाग्रा॒मो न याम᳚न्नु॒त त्वि॒षा ॥
शि॒शूला॒ न क्री॒ळयः᳚ सुमा॒तरो᳚ महाग्रा॒मो न याम᳚न्नु॒त त्वि॒षा ॥
पदपाठः (Word-by-word)
ग्रावा᳚णः । न । सू॒रयः᳚ । सिन्धु᳚॑मातरः । आ॒॑द॒र्दि॒रासः᳚ । अद्र᳚यः । न । वि॒श्वहा᳚ ।
शि॒शूलाः᳚ । न । क्री॒ळयः᳚ । सु॒॑मा॒तरः᳚ । म॒हा॒॑ग्रा॒मः । न । याम᳚न् । उ॒त । त्वि॒षा ॥
शि॒शूलाः᳚ । न । क्री॒ळयः᳚ । सु॒॑मा॒तरः᳚ । म॒हा॒॑ग्रा॒मः । न । याम᳚न् । उ॒त । त्वि॒षा ॥
सायणभाष्यम् (Sayana Commentary)
सूरय उदकस्य प्रेरका ग्रावाणो न मेघा इव सिन्धुमातरो नदीनिर्मातारः। आदर्दिरास आदरणशीलान्यद्रयो न वज्राद्यायुधानीव विश्वहा सर्वदा शत्रूणां हन्तार इत्यर्थः। यद्वा। सर्वदाद्रयो न वज्रा इव शत्रूणामादर्दिरास आदरणशीलाः। सुमातरः शोभनमातृकाः शिशूला न शिशूला न शिशव इव क्रीळयो विहर्तारः। उतापि च महाग्रामो न महाञ्जनसङ्घ इव यामन्यामनि गमने त्विषा दीप्त्य युक्ता भवन्ति। तेऽस्मद्यज्ञमागच्छन्तु॥६॥