श्रवणम्

10.78.4
रथा᳚नां॒ न ये॒३॒᳚॑राः सना᳚भयो जिगी॒वांसो॒ न शूरा᳚ अ॒भिद्य᳚वः ।
व॒रे॒यवो॒ न मर्या᳚ घृत॒प्रुषो᳚॑भिस्व॒र्तारो᳚ अ॒र्कं न सु॒ष्टुभः᳚ ॥
▶ पदपाठः (Word-by-word)
रथा᳚नाम् । न । ये । अ॒राः । स॑ना᳚भयः । जि॒गी॒वांसः᳚ । न । शूराः᳚ । अ॒भि॑द्य᳚वः ।
व॒रे॒॑यवः᳚ । न । मर्याः᳚ । घृ॒त॒॑प्रुषः᳚ । अ॒भि॒॑स्व॒र्तारः᳚ । अ॒र्कम् । न । सु॒॑स्तुभः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथानां न रथचक्राणामिवाराः ते यथा बहवोऽपि सनाभयह् समाननाभयो भवन्ति तद्वद्ये परस्परं सनाभयः समानबन्धना एकस्मिन्नेवान्तरिक्षे वर्तमानाः। परस्परं बन्धुभुता इत्यर्थः। जिगीवांसो न शूरा जयशीलाः शूरा इवाभिद्यवोऽभिगतदीप्तयः किञ्च वरेयवो न मर्या वृतं वरं परस्मै प्रदातुमिच्छन्तो मनुष्या इव घृतप्रुष उदकसेक्तारः। उदक पूर्वं हि वराणि वसूनि दीयन्ते नियमेन। वृष्ट्युदकप्रदा इत्यर्थः। किञ्चाभिस्वर्तारोऽर्कं नार्कमर्चनीयं स्तोत्रमभिस्वर्तारोऽभितः शब्दयितारो वन्दिन इव सुष्टुभः सुशब्दाः॥४॥