श्रवणम्

10.21.1
आग्निं न स्ववृ᳚क्तिभि॒र्होता᳚रं त्वा वृणीमहे ।
य॒ज्ञाय᳚ स्ती॒र्णब᳚र्हिषे॒ वि वो॒ मदे᳚ शी॒रं पा᳚व॒कशो᳚चिषं॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्निम् । न । स्ववृ᳚क्ति॑भिः । होता᳚रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।
य॒ज्ञाय᳚ । स्ती॒र्ण॑ब᳚र्हिषे । वि । वः॒ । मदे᳚ । शी॒रम् । पा॒व॒क॑शो᳚चिषम् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वः तव स्वभूते विमदे एतदाख्ये ऋषौ मयि इयं स्तुतिः प्रवृत्तास्ति नेति संप्रत्यर्थे अतोवयमिदानीं स्ववृक्तिभिः स्वयं कृताभिः दोषवर्जिताभिः स्तुतिभिः होतारं देवानामाह्वातारं होमनिष्पादकं वा अग्निं त्वा त्वां आवृणीमहे आभिमुख्येन संभजामहे । किमर्थं स्तीर्णबर्हिषे यज्ञाय तादर्थ्ये चतुर्थी यज्ञार्थं कीदृशं शीरं ओषध्यादिषु सर्वत्रानुशा यिनं पावकशोचिषं शोधकदीप्तिं विवक्षसे महन्नामैतत् हे अग्ने त्वमपि महान् भवसि यद्वा विमदे यज्ञस्य संबन्धिनः सोमस्य पानजन्यविविधमदार्थं त्वामावृणीमहइति योज्यं ॥ १ ॥