श्रवणम्

10.21.8
अग्ने᳚ शु॒क्रेण᳚ शो॒चिषो॒रु प्र᳚थयसे बृ॒हत् ।
अ॒भि॒क्रन्द᳚न्वृषायसे॒ वि वो॒ मदे॒ गर्भं᳚ दधासि जा॒मिषु॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । शु॒क्रेण᳚ । शो॒चिषा᳚ । उ॒रु । प्र॒थ॒य॒से॒ । बृ॒हत् ।
अ॒भि॒॑क्रन्द᳚न् । वृ॒ष॒॑य॒से॒ । वि । वः॒ । मदे᳚ । गर्भ᳚म् । द॒धा॒सि॒ । जा॒मिषु᳚ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने बृहत् महांस्त्वं शुक्रेण दीप्तेन शोचिषा तेजसा उरु प्रथयसे विस्तीर्णं यथा भ वति तथा प्रख्यातोभवसि । किंच अभिक्रन्दन् आभिमुख्येत युद्धार्थं शत्रूनाह्वयन् वृषाय- से वृषइवाचरसि युद्धकालेदर्पितवृषइव रोरुवद्भवसीत्यर्थः । त्वं माध्यमिकः सन् जामिषु भगिनीभूतास्वोषधीषु गर्भं बीजलक्षणं दधासि वृष्टिद्वारेण धारयसि । एकस्मात् प्रजापतेः सकाशात् उद्भूतत्वादग्न्योषध्योर्जामित्वं उपचर्यते । कस्मिन् सति विवोमदे तव विविध- सोमादिहविर्जन्यमदे संजाते सति । यस्मात् एवं कृतवानसि तस्मात् त्वं विवक्षसे महान् भवसि विवक्षसइति महन्नाम वक्तेर्वा सन्नन्तस्यरूपं इति ॥ ८ ॥

कुहेति पञ्चदशर्चं षष्ठं सूक्तं ऎन्द्रं पश्चदशी त्रिष्टुप् पञ्चमीसप्तमीनवम्यस्तिस्रोनुष्टुभः शिष्टाः पुरस्ताद्बृहत्यः आद्यद्वादकत्र्यष्टक्वतीपुरस्ताद्बृहती पूर्ववदृषिः । तथाचानुक्रान्तं- कुहपंचोना पुर्स्तद्बार्हतं त्रिष्टुबन्तं त्वंत्याचिदानस्त्वंनोनुष्टुभइति । चतुर्थेहनि निष्केवल्ये एतत्सूक्तम् । सूत्रितंच—कुहश्रुतइन्द्रोयुध्मस्यतइति निष्केवल्यमिति ।