त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु᳚मग्ने॒ नि षे᳚दिरे ।
घृ॒तप्र᳚तीकं॒ मनु᳚षो॒ वि वो॒ मदे᳚ शु॒क्रं चेति᳚ष्ठम॒क्षभि॒र्विव᳚क्षसे ॥
घृ॒तप्र᳚तीकं॒ मनु᳚षो॒ वि वो॒ मदे᳚ शु॒क्रं चेति᳚ष्ठम॒क्षभि॒र्विव᳚क्षसे ॥
पदपाठः (Word-by-word)
त्वाम् । य॒ज्ञेषु᳚ । ऋ॒त्विज᳚म् । चारु᳚म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ ।
घृ॒त॑प्र᳚तीकम् । मनु᳚षः । वि । वः॒ । मदे᳚ । शु॒क्रम् । चेति᳚ष्ठम् । अ॒क्ष॑भिः᳚ । विव᳚क्षसे ॥
घृ॒त॑प्र᳚तीकम् । मनु᳚षः । वि । वः॒ । मदे᳚ । शु॒क्रम् । चेति᳚ष्ठम् । अ॒क्ष॑भिः᳚ । विव᳚क्षसे ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वां मनुषोमनुष्याः यजमानयज्ञेषु यागेषु निषेदिरे नियमेन स्थापयन्ति । कीदृशं ऋत्विजं होतृनामकं चारुं रमणीयं घृतप्रतीकं आज्याहुतिपूर्णमुखं शुक्रं ज्वलन्तं अक्षभिर्व्याप्तैः तेजोभिः चेतिष्ठं अतिशयेन ज्ञातारम् । किमर्थं विवोमदे तव सोमादिहवि- र्जन्यविविधतृप्त्यर्थं यस्मादेवं तस्माद्विवक्षसे महान् भवसि ॥ ७ ॥