त्वामु॒ ते स्वा॒भुवः᳚ शु॒म्भन्त्यश्व᳚राधसः ।
वेति॒ त्वामु᳚प॒सेच᳚नी॒ वि वो॒ मद॒ ऋजी᳚तिरग्न॒ आहु᳚ति॒र्विव᳚क्षसे ॥
वेति॒ त्वामु᳚प॒सेच᳚नी॒ वि वो॒ मद॒ ऋजी᳚तिरग्न॒ आहु᳚ति॒र्विव᳚क्षसे ॥
पदपाठः (Word-by-word)
त्वाम् । ऊं॒ इति᳚ । ते । सु॒॑आ॒भुवः᳚ । शु॒म्भन्ति᳚ । अश्व᳚॑राधसः ।
वेति᳚ । त्वाम् । उ॒प॒॑सेच᳚नी । वि । वः॒ । मदे᳚ । ऋजी᳚तिः । अ॒ग्ने॒ । आ॑हु᳚तिः । विव᳚क्षसे ॥
वेति᳚ । त्वाम् । उ॒प॒॑सेच᳚नी । वि । वः॒ । मदे᳚ । ऋजी᳚तिः । अ॒ग्ने॒ । आ॑हु᳚तिः । विव᳚क्षसे ॥
सायणभाष्यम् (Sayana Commentary)
स्वाभुवः स्वप्रकाशेन दीप्यमानाः अश्वराधसोव्याप्तधनाः ते यजमानाः हे अग्ने त्वामु त्वामेव शुंभन्ति शोभयन्ति यज्ञेहविर्भिर्दीपयन्तीत्यर्थः । किंच उपसेचनी तवोपरिक्षरण- शीला ऋजीतिः ऋजुगामिनी हूयमाना आहुतिः हे अग्ने त्वां वेति गच्छति । किमर्थं वस्तव विमदे मदनिमित्ते तृप्त्यर्थमित्यर्थः । किंच त्वमपि विविक्षसे महान् भवसि ॥ २ ॥