यम᳚ग्ने॒ मन्य᳚से र॒यिं सह᳚सावन्नमर्त्य ।
तमा नो॒ वाज᳚सातये॒ वि वो॒ मदे᳚ य॒ज्ञेषु᳚ चि॒त्रमा भ᳚रा॒ विव᳚क्षसे ॥
तमा नो॒ वाज᳚सातये॒ वि वो॒ मदे᳚ य॒ज्ञेषु᳚ चि॒त्रमा भ᳚रा॒ विव᳚क्षसे ॥
पदपाठः (Word-by-word)
यम् । अ॒ग्ने॒ । मन्य᳚से । र॒यिम् । सह᳚सा॑वन् । अ॒म॒र्त्य॒ ।
तम् । आ । नः॒ । वाज᳚॑सातये । वि । वः॒ । मदे᳚ । य॒ज्ञेषु᳚ । चि॒त्रम् । आ । भ॒र॒ । विव᳚क्षसे ॥
तम् । आ । नः॒ । वाज᳚॑सातये । वि । वः॒ । मदे᳚ । य॒ज्ञेषु᳚ । चि॒त्रम् । आ । भ॒र॒ । विव᳚क्षसे ॥
सायणभाष्यम् (Sayana Commentary)
हे अमर्त्य अमरणधर्मन् सहसावन् बलवन् एवंभूत हे अग्ने त्वं यं रयिं मन्यसे सर्वेषु धनेषु यद्धनं वरिष्ठमिति जानासि चित्रं चायनीयं रयिं नोस्माकम् । वाजसातये अन्नलाभाय आभर आहर प्रयच्छ । किमर्थं वोयुष्माकं सर्वेषां देवानां यज्ञेषु विमदे विविधसोमादि- हविर्जन्यमदनिमित्ते यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि विवक्षसे महान् भर्जन्यमदनिमित्ते यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि वि- वक्षसे महान् भवसि ॥ ४ ॥