त्वां य॒ज्ञेष्वी᳚ळ॒ते॑ग्ने᳚ प्रय॒त्य᳚ध्व॒रे ।
त्वं वसू᳚नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा᳚ दधासि दा॒शुषे॒ विव᳚क्षसे ॥
त्वं वसू᳚नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा᳚ दधासि दा॒शुषे॒ विव᳚क्षसे ॥
पदपाठः (Word-by-word)
त्वाम् । य॒ज्ञेषु᳚ । ई॒ळ॒ते॒ । अग्ने᳚ । प्र॒॑य॒ति । अ॒ध्व॒रे ।
त्वम् । वसू᳚नि । काम्या᳚ । वि । वः॒ । मदे᳚ । विश्वा᳚ । द॒धा॒सि॒ । दा॒शुषे᳚ । विव᳚क्षसे ॥
त्वम् । वसू᳚नि । काम्या᳚ । वि । वः॒ । मदे᳚ । विश्वा᳚ । द॒धा॒सि॒ । दा॒शुषे᳚ । विव᳚क्षसे ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वां प्रयति प्रकर्षेण गच्छति वर्तमाने अध्वरे यागे यज्ञेषु यजनीयेषु हविः षु आसन्नेषु सत्सु ईळते ऋत्विग्यजमानाः स्तुवन्ति । अपिच हे अग्ने त्वं विश्वा विश्वानि काम्या काम्यानि कमनीयानि वसूनि धनानि दाशुषे हविर्दत्तवते यजमानाय विमदे सो- मादिहविर्जन्यतृप्तौ सत्यां दधासि प्रयच्छसि अतः कारणाद्विवक्षसे त्वं महान् भवसि ॥ ६ ॥