त्वे ध॒र्माण᳚ आसते जु॒हूभि᳚ः सिञ्च॒तीरि᳚व ।
कृ॒ष्णा रू॒पाण्यर्जु᳚ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो᳚ धिषे॒ विव᳚क्षसे ॥
कृ॒ष्णा रू॒पाण्यर्जु᳚ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो᳚ धिषे॒ विव᳚क्षसे ॥
पदपाठः (Word-by-word)
त्वे इति᳚ । ध॒र्माणः᳚ । आ॒स॒ते॒ । जु॒हूभिः᳚ । सि॒ञ्च॒तीः॑इ᳚व ।
कृ॒ष्णा । रू॒पाणि᳚ । अर्जु᳚ना । वि । वः॒ । मदे᳚ । विश्वाः᳚ । अधि᳚ । श्रियः᳚ । धि॒षे॒ । विव᳚क्षसे ॥
कृ॒ष्णा । रू॒पाणि᳚ । अर्जु᳚ना । वि । वः॒ । मदे᳚ । विश्वाः᳚ । अधि᳚ । श्रियः᳚ । धि॒षे॒ । विव᳚क्षसे ॥
सायणभाष्यम् (Sayana Commentary)
धर्माणोयज्ञस्य धारयितारऋत्विजः जुहूभिः संपूर्णाहुतिभिर्होमपात्रैः त्वे त्वामेव आस ते सेवन्ते । तत्रदृष्टान्तः—सिंचतीरिव वृष्टिलक्षणाः पृथिवीं सिंचंत्यआपः अग्नीन् यथा स्व पितृत्वेन सेवन्ते तद्वत् । अग्नेरापइतिश्रुतेः । तस्यापां पितृत्वम् । यद्वा जुहूभिः सिंचतीरिव सिच्यमानाआहुतयइव धर्मणः त्वया धार्यमाणारश्मयः त्वे त्वयि आसते निवसन्ति । हे अग्ने त्वं कृष्णा कृष्णावर्णानि अर्जुना अर्जुनानि श्वेतवर्णानिज्वालान्तर्गतरूपाणि च विश्वाः सर्वाः श्रियः शोभाअधिधिषे अधिकं यथा भवति तथा धारयसि किमर्थं वोयुष्माकं सर्वे षां देवानां विमदे विविधसोमपानजन्यमदार्थं यतएवमतः विवक्षसे त्वं महान् भवसि ॥ ३ ॥