श्रवणम्

10.21.5
अ॒ग्निर्जा॒तो अथ᳚र्वणा वि॒दद्विश्वा᳚नि॒ काव्या᳚ ।
भुव᳚द्दू॒तो वि॒वस्व᳚तो॒ वि वो॒ मदे᳚ प्रि॒यो य॒मस्य॒ काम्यो॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । जा॒तः । अथ᳚र्वणा । वि॒दत् । विश्वा᳚नि । काव्या᳚ ।
भुव᳚त् । दू॒तः । वि॒वस्व᳚तः । वि । वः॒ । मदे᳚ । प्रि॒यः । य॒मस्य᳚ । काम्यः᳚ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथर्वणा एतन्नाम्ना ऋषिणा जातोजनितोग्निः कथमवगम्यते । त्वामग्नेपुष्करादध्यथर्वा निरमन्थतेतिमंत्रान्तरात् । विश्वानि समस्तानि काव्या काव्यानि स्तोतृकर्माणि विदत् वेत्तिविवस्वतोयजमानस्य दूतः देवानामाह्वानार्थं भुवत् भवति । किंच यमस्य संयन्तुः यजमानस्य प्रियः इष्टः सन् काम्यः कमनीयः प्रार्थनीयोभवतीत्यर्थः । शिष्टं स्पष्टं ॥ ५ ॥