को मा᳚ ददर्श कत॒मः स दे॒वो यो मे᳚ त॒न्वो᳚ बहु॒धा प॒र्यप᳚श्यत् ।
क्वाह᳚ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वा᳚ः स॒मिधो᳚ देव॒यानी᳚ः ॥
क्वाह᳚ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वा᳚ः स॒मिधो᳚ देव॒यानी᳚ः ॥
पदपाठः (Word-by-word)
कः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः᳚ । ब॒हु॒धा । प॒रि॒॑अप᳚श्यत् ।
क्व᳚ । अह᳚ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः᳚ । स॒म्॑इधः᳚ । दे॒व॒॑यानीः᳚ ॥
क्व᳚ । अह᳚ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः᳚ । स॒म्॑इधः᳚ । दे॒व॒॑यानीः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इदमग्नेर्वाक्यम्। एको देवोऽपश्यदित्युक्ते पृच्छति। को मा मां ददर्श दृष्टवान्। स देवः कतमः। यो मे मम तन्वस्तनूर्बहुधा बहुप्रकारं स्थिताः पर्यपश्यत् परिदृष्टवान्। हे मित्रावरुना मित्रावरुणौ अग्नेर्मम विश्वाः सर्वाः समिधो दीप्ता देवयानीर्देवयानसाधनभुतास्तन्वो दृष्टा इत्युक्तं यदि दृष्टाश्चेत्तर्हि क्व क्षियन्ति क्व निवसन्तीत्येवं देवानां पुरतो वर्तमानौ मित्रा वरुणावाहाग्निः॥२॥