हो॒त्राद॒हं व᳚रुण॒ बिभ्य᳚दायं॒ नेदे॒व मा᳚ यु॒नज॒न्नत्र᳚ दे॒वाः ।
तस्य᳚ मे त॒न्वो᳚ बहु॒धा निवि᳚ष्टा ए॒तमर्थं॒ न चि᳚केता॒हम॒ग्निः ॥
तस्य᳚ मे त॒न्वो᳚ बहु॒धा निवि᳚ष्टा ए॒तमर्थं॒ न चि᳚केता॒हम॒ग्निः ॥
पदपाठः (Word-by-word)
हो॒त्रात् । अ॒हम् । व॒रु॒ण॒ । बिभ्य᳚त् । आ॒य॒म् । न । इत् । ए॒व । मा॒ । यु॒नज᳚न् । अत्र᳚ । दे॒वाः ।
तस्य᳚ । मे॒ । त॒न्वः᳚ । ब॒हु॒धा । नि॑वि᳚ष्टाः । ए॒तम् । अर्थ᳚म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥
तस्य᳚ । मे॒ । त॒न्वः᳚ । ब॒हु॒धा । नि॑वि᳚ष्टाः । ए॒तम् । अर्थ᳚म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥
सायणभाष्यम् (Sayana Commentary)
अनया देवगणा मा ज्ञातवन्त इति निश्चित्य गूहनस्य प्रयोजनमाह। हे वरुण देव अहं होत्राद्धोतव्यात्। हविर्वहनादित्यर्थः। तस्माद्भिभ्यदायम् । आगतवानस्मि। अतो मा मामेवैवं पूर्वप्रकारेणात्रास्मिन्हविर्वहनप्रयोजने नेद्युनजन् मैव योजयन्त देवाः। तस्य तादृशस्य बिभ्यतो मे तन्वो बहुधा निविष्टा अप्सु। एतमर्थमेतद्धविर्वहनकार्यमग्निरहं न चिकेत। न बुध्ये। नाङ्गीकरोमि॥४॥