प्र॒या॒जान्मे᳚ अनुया॒जा{4}श्च॒ केव᳚ला॒नूर्ज᳚स्वन्तं ह॒विषो᳚ दत्त भा॒गम् ।
घृ॒तं चा॒पां पुरु᳚षं॒ चौष᳚धीनाम॒ग्नेश्च᳚ दी॒र्घमायु᳚रस्तु देवाः ॥
घृ॒तं चा॒पां पुरु᳚षं॒ चौष᳚धीनाम॒ग्नेश्च᳚ दी॒र्घमायु᳚रस्तु देवाः ॥
पदपाठः (Word-by-word)
प्र॒॑या॒जान् । मे॒ । अ॒नु॒॑या॒जान् । च॒ । केव᳚लान् । ऊर्ज᳚स्वन्तम् । ह॒विषः᳚ । द॒त्त॒ । भा॒गम् ।
घृ॒तम् । च॒ । अ॒पाम् । पुरु᳚षम् । च॒ । ओष᳚धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः᳚ । अ॒स्तु॒ । दे॒वाः॒ ॥
घृ॒तम् । च॒ । अ॒पाम् । पुरु᳚षम् । च॒ । ओष᳚धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः᳚ । अ॒स्तु॒ । दे॒वाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अनेनाग्निर्हविर्वहने दाताव्यानुक्त्वा दत्तेति प्रतिजानाति। हे देवाः मे मह्यं प्रयजान् प्रधानस्य प्रमुखे यष्टव्यानेतन्नामकान् हविर्भागान् तथानुयाजाननुप्रधानात्पश्चाद्यष्टव्यानेतन्नामकान् केवलानसाधारणान्दत्त। प्रयच्छत। तथोर्जस्वन्तं प्रत्यभिघारणात्सारवन्तं हविषह् सर्वस्यापि चरुपुरोडाशादेर्भागं स्विष्टकृदाख्यं भागं दत्त। अथवोर्जस्वन्तं हविषो भागं प्रयाजानुयाजाख्यं दत्तेति योज्यम् । किञ्चापां सारभूतं ताभ्य उत्पन्नं वा घृतमाज्यभागादिसाधनमोषधीनामोषधीभ्य उत्पन्नं पुरुषं च भागं दत्त। किञ्चाग्नेर्मम दीर्घमायुष्चास्तु। वषट्कारकृतवधभयं मा भूदित्यर्थः। अमुमितिहासं प्रस्तुत्य कौषीतकि ब्राह्मणम्। तस्मादाहुराग्नेयाः प्रयाजा आग्नेया अनुयाजा आग्नेयमाज्यमाग्नेयः पुरोडाश इति। शरीरदाया ह वा अग्नयो भवन्तीति च ब्राह्मणं पुरुषाहुतिर्यस्य प्रियतमेति च॥८॥