ऐच्छा᳚म त्वा बहु॒धा जा᳚तवेद॒ः प्रवि᳚ष्टमग्ने अ॒प्स्वोष᳚धीषु ।
तं त्वा᳚ य॒मो अ᳚चिकेच्चित्रभानो दशान्तरु॒ष्याद᳚ति॒रोच᳚मानम् ॥
तं त्वा᳚ य॒मो अ᳚चिकेच्चित्रभानो दशान्तरु॒ष्याद᳚ति॒रोच᳚मानम् ॥
पदपाठः (Word-by-word)
ऐच्छा᳚म । त्वा॒ । ब॒हु॒धा । जा॒त॒॑वे॒दः॒ । प्र॑वि᳚ष्टम् । अ॒ग्ने॒ । अ॒प्॑सु । ओष᳚धीषु ।
तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति᳚ चित्र॑भानो । द॒श॒॑अ॒न्त॒रु॒ष्यात् । अ॒ति॒॑रोच᳚मानम् ॥
तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति᳚ चित्र॑भानो । द॒श॒॑अ॒न्त॒रु॒ष्यात् । अ॒ति॒॑रोच᳚मानम् ॥
सायणभाष्यम् (Sayana Commentary)
एवमग्निना पृष्टा देवा अग्निं ब्रुवन्ति। हे जातवेदो जातप्रज्ञाग्ने त्वा त्वामन्वैच्छाम। कीदृशं त्वाम्। अप्सूदकेष्वोषधीषु च बहुधा प्रविष्टम्। अन्विष्य च तं तादृशं प्रविष्टं त्वा त्वां यमो देवोऽचिकेत् ज्ञातवान् हे चित्रभानो चायनीयरश्मे। कुत्र स्थितं ज्ञातवानिति तदुच्यते। दशान्तरुष्यात्। अन्तरुष्यं गूढमावासस्थानं तच्च स्थानं दशस~ख्योपेतम्। तादृशं स्थानमतिरोचमानमतीत्य प्रकाशमानम्। अग्नेर्हि गूढानि दश स्थानानि भवन्ति पृघिव्यादयस्त्रयो ओका अग्निवाय्वादित्यास्त्रयो देवा आप ओषधयो वनस्पतयः प्राणिशरीरमिति दश स्थानानि॥३॥