तव᳚ प्रया॒जा अ᳚नुया॒जाश्च॒ केव᳚ल॒ ऊर्ज᳚स्वन्तो ह॒विषः᳚ सन्तु भा॒गाः ।
तवा᳚ग्ने य॒ज्ञो॒३॒᳚॑यम᳚स्तु॒ सर्व॒स्तुभ्यं᳚ नमन्तां प्र॒दिश॒श्चत᳚स्रः ॥
तवा᳚ग्ने य॒ज्ञो॒३॒᳚॑यम᳚स्तु॒ सर्व॒स्तुभ्यं᳚ नमन्तां प्र॒दिश॒श्चत᳚स्रः ॥
पदपाठः (Word-by-word)
तव᳚ । प्र॒॑या॒जाः । अ॒नु॒॑या॒जाः । च॒ । केव᳚ले । ऊर्ज᳚स्वन्तः । ह॒विषः᳚ । स॒न्तु॒ । भा॒गाः ।
तव᳚ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः᳚ । तुभ्य᳚म् । न॒म॒न्ता॒म् । प्र॒॑दिशः᳚ । चत᳚स्रः ॥
तव᳚ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः᳚ । तुभ्य᳚म् । न॒म॒न्ता॒म् । प्र॒॑दिशः᳚ । चत᳚स्रः ॥
सायणभाष्यम् (Sayana Commentary)
एवमग्निना याच्यमाना देवाः प्रति ब्रुवते। हे अग्ने तव प्रयाजा अनुयाजाश्च केवलेऽसाधारणा ऊर्जस्वन्तो बलवन्तो हविषो भागाः सन्तु। हे अग्ने अयं सर्वो यज्ञश्च तवास्तु। तथा प्रदिशः प्रकृष्टा मुख्याश्चतस्रो दिशस्तुभ्यं नमन्ताम्। अत एहि हविर्वहेति शेषः॥९॥