श्रवणम्

10.51.5
एहि॒ मनु᳚र्देव॒युर्य॒ज्ञका᳚मो॑रं॒कृत्या॒ तम᳚सि क्षेष्यग्ने ।
सु॒गान्प॒थः कृ᳚णुहि देव॒याना॒न्वह᳚ ह॒व्यानि᳚ सुमन॒स्यमा᳚नः ॥
▶ पदपाठः (Word-by-word)
आ । इ॒हि॒ । मनुः᳚ । दे॒व॒॑युः । य॒ज्ञ॑का᳚मः । अ॒र॒म्॑कृत्य᳚ । तम᳚सि । क्षे॒षि॒ । अ॒ग्ने॒ ।
सु॒॑गान् । प॒थः । कृ॒णु॒हि॒ । दे॒व॒॑याना᳚न् । वह᳚ । ह॒व्यानि᳚ । सु॒॑म॒न॒स्यमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निनैवमुक्ता देवाः पुनरग्निमाह्वयन्ति। हे अग्ने एहि। अगच्छ। मनुर्मनुष्यो यष्टा मननीयो मनू राजा वा देवयुर्देवान्यष्टुमिच्छन् यज्ञकामश्च भवति। अत एहि। किं कुर्वन् यज्ञकामो भवतिति चेत् उच्यते। अरंकृत्य केवलं तेजः पुञ्जमेवालङ्कुर्वन्। यद्वेदमुत्तरत्र सम्बध्यते। त्वमलङ्कृत्यात्मानमलंकुर्वन् तमस्यन्यैर्ज्ञातुमशक्येऽन्धकारे क्षेषि। निवससि। हे अग्ने आगत्य च देवयानान् देवान्प्रति यैर्मनुष्या गच्छन्ति तान्पथो मार्गान् सुगान्कृणुहि। कुरु। कृवि हिंसाकरनयोश्च। धिन्विकृण्व्योरच्छेत्युप्रत्ययः। सम्मत्या नो यज्ञनिष्पत्तेर्देवयाना सुपथा भवन्ति। वह हव्यान्यस्मदीयानि सुमनस्यमानः स्ॐअनस्यमाचरन्स्त्वम्॥५॥