कु॒र्मस्त॒ आयु᳚र॒जरं॒ यद᳚ग्ने॒ यथा᳚ यु॒क्तो जा᳚तवेदो॒ न रिष्या᳚ः ।
अथा᳚ वहासि सुमन॒स्यमा᳚नो भा॒गं दे॒वेभ्यो᳚ ह॒विषः᳚ सुजात ॥
अथा᳚ वहासि सुमन॒स्यमा᳚नो भा॒गं दे॒वेभ्यो᳚ ह॒विषः᳚ सुजात ॥
पदपाठः (Word-by-word)
कु॒र्मः । ते॒ । आयुः᳚ । अ॒जर᳚म् । यत् । अ॒ग्ने॒ । यथा᳚ । यु॒क्तः । जा॒त॒॑वे॒दः॒ । न । रिष्याः᳚ ।
अथ᳚ । व॒हा॒सि॒ । सु॒॑म॒न॒स्यमा᳚नः । भा॒गम् । दे॒वेभ्यः᳚ । ह॒विषः᳚ । सु॒॑जा॒त॒ ॥
अथ᳚ । व॒हा॒सि॒ । सु॒॑म॒न॒स्यमा᳚नः । भा॒गम् । दे॒वेभ्यः᳚ । ह॒विषः᳚ । सु॒॑जा॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
इदं देवानां वाक्यम्। हे अग्ने यदायुरायुष्यमजरं जरारहितमस्ति तत्ते कुर्मः। तथा तेनायुषा युक्तस्त्वं हे जातवेदो जातप्रज्ञ यथा न रिष्या न म्रियसे तथा कुर्मः। अथ वहासि वह सुमनस्यमानः स्ॐअनस्यं कुर्वन्। वोढव्यं वहन्। तदेव दर्शयति। हविषो यजमानप्रत्तस्य भागम्। केभ्यः। देवेभ्यः। हे सुजात शोभनजन्मन्नग्ने॥७॥