अ॒ग्नेः पूर्वे॒ भ्रात᳚रो॒ अर्थ᳚मे॒तं र॒थीवाध्वा᳚न॒मन्वाव᳚रीवुः ।
तस्मा᳚द्भि॒या व᳚रुण दू॒रमा᳚यं गौ॒रो न क्षे॒प्नोर᳚विजे॒ ज्याया᳚ः ॥
तस्मा᳚द्भि॒या व᳚रुण दू॒रमा᳚यं गौ॒रो न क्षे॒प्नोर᳚विजे॒ ज्याया᳚ः ॥
पदपाठः (Word-by-word)
अ॒ग्नेः । पूर्वे᳚ । भ्रात᳚रः । अर्थ᳚म् । ए॒तम् । र॒थी॑इ᳚व । अध्वा᳚नम् । अनु᳚ । आ । अ॒व॒री॒वु॒रिति᳚ ।
तस्मा᳚त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । अ॒वि॒जे॒ । ज्यायाः᳚ ॥
तस्मा᳚त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । अ॒वि॒जे॒ । ज्यायाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अनयाग्निः स्वपलायननिमित्तमाह। हे देवा अग्ने र्मम पूर्वे पूर्वमुत्पन्ना भ्रातरो भूपतिर्भुवनपतिर्भुतानां पतिरिति त्रयोऽग्रजा एतमर्थं हविर्वहनाख्यमर्थमन्वावरीवुः। अनुक्रमेण वृतवन्तः। तत्र वृणोतेर्यङ् लुगन्ताल्लुङि झेष्छान्दसो लुक्। बहुलं छन्दसीत्युक्तम्। आवरणे दृष्टान्तः। रथीवाध्वानम्। अध्वानं यथा रथी वृणुते तद्वत्। ते भ्रातरस्तथा कुर्वन्तो हताः। तस्मान्मरनद्भिया भीत्या हे वरुण दूरं देशमायम् । किं च क्षेप्नोरिषु क्षेप्तुर्धनुषो ज्यायाः सकाशाद्गौरो न मृग इव स यथा बिभेति चलति वा तद्वदविजे। अकम्पे। ओविजी भयचलनयोः। अनुदत्तेत्तौदादिकः। तस्य लङ्युत्तमे रूपम्॥६॥