श्रवणम्

10.43.1
अच्छा᳚ म॒ इन्द्रं᳚ म॒तयः᳚ स्व॒र्विदः᳚ स॒ध्रीची॒र्विश्वा᳚ उश॒तीर᳚नूषत ।
परि᳚ ष्वजन्ते॒ जन᳚यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा᳚नमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । मे॒ । इन्द्र᳚म् । म॒तयः᳚ । स्वः॒॑विदः᳚ । स॒ध्रीचीः᳚ । विश्वाः᳚ । उ॒श॒तीः । अ॒नू॒ष॒त॒ ।
परि᳚ । स्व॒ज॒न्ते॒ । जन᳚यः । यथा᳚ । पति᳚म् । मर्य᳚म् । न । शु॒न्ध्युम् । म॒घ॑वा᳚नम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आंगिरसस्य कृष्णस्य मे मम स्वर्विदः सर्वस्य लंभयित्र्यः सध्रीचीः संगताः विश्वाव्या- प्ताः उशतीः कामयमानाः मतयः स्तुतयः इंद्रमच्छानूषत अभिष्टुवंति । किंच जनयोजायाः यथा पतिं भर्तारं मर्यं न यथा च मनुष्यं शुंध्युं शुद्धं दोषरहितं मघवानं धनवंतमूतयेर- क्षणार्थं परिष्वणंते आलिंगंति तद्वदिंद्रं मे स्तुतयः परिष्वजंते ॥ १ ॥